|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.62. अध्यायः 062
Mahabharata - Vana Parva - Chapter Topics
दमयन्त्या सार्थेन सह चेदिराजपुरंप्रति प्रस्तानम् ॥ 1 ॥ वनमध्ये सरस्तीरशायिनि सार्थे निशीथे पानीयपानायागतगजयूथनिहतभूयिष्ठे दिष्टया दमयन्त्या अपि शेषीकारः ॥ 2 ॥ हतावशिष्टेन जनेन सह चेदिराजपुरं गताया दमयन्त्या राजमात्रा स्वान्तःपुराधिवासनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
बृहृदश्व उवाच। 3-62-0x(1937)(18284)
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा।
जगाम सह तेनैव सार्थेन पतिलालसा ॥ 3-62-1(18285)
अथ काले बहुतिथे वने महति दारुणे।
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥ 3-62-2(18286)
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्।
बहुमूलफलोपेतं नानापक्षिनिषेवितम् ॥ 3-62-3(18287)
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम्।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥ 3-62-4(18288)
संमते सार्थवाहस्य विविशुर्वनमुत्तमम्।
उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम् ॥ 3-62-5(18289)
अथार्धरात्रसमये निःशब्दे तिमिरे तदा।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्।
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम् ॥ 3-62-6(18290)
[अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् ॥ 3-62-7(18291)
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥ 3-62-8(18292)
तेषामापततां वेगः करिणां दुःसहोऽभवत्।
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ।
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ॥] 3-62-9(18293)
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्।
ते तं ममर्दुः सहसा वेष्टमानं महीतले ॥ 3-62-10(18294)
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः।
वनगुल्मांश्च धावन्तो निद्रया महतो भयात् ॥ 3-62-11(18295)
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः ॥ 3-62-12(18296)
निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः।
भयादाधावमानाश् परस्परहतास्तदा ॥ 3-62-13(18297)
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले।
वृक्षेष्वासज्यसंभग्नाः पतिता विषमेषु च ॥ 3-62-14(18298)
एवंप्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम् ॥ 3-62-15(18299)
आरावः सुमहांश्चासीत्रैलोक्यभयकारकः।
एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना ॥ 3-62-16(18300)
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत।
सामान्यमेतद्द्रविणं न मिथ्या वचनं मम ॥ 3-62-17(18301)
पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः।
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ॥ 3-62-18(18302)
तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये।
दमयन्ती च बुबुधे भयसंत्रस्तमानसा।
अपश्यद्वैशसं तत्र सर्वलोकभयंकरम् ॥ 3-62-19(18303)
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा।
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ॥ 3-62-20(18304)
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः।
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ॥ 3-62-21(18305)
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः।
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ॥ 3-62-22(18306)
न पूजा विघ्रकर्तॄणामथवा प्रथमं कृता ॥ 3-62-23(18307)
शकुनानां फलं वाऽथ विपरीतिमिदं ध्रुवम्।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम् ॥ 3-62-24(18308)
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता।
याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना ॥ 3-62-25(18309)
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम्।
तयैवं विहिता पूर्वं माया परमदारुणा ॥ 3-62-26(18310)
राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा ॥ 3-62-27(18311)
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम्।
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः।
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ॥ 3-62-28(18312)
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम्।
ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम् ॥ 3-62-29(18313)
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् ॥ 3-62-30(18314)
अहो ममोपरि विधेः संरम्भो दारुणो महान्।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् ॥ 3-62-31(18315)
न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् ॥ 3-62-32(18316)
नूनं जन्मान्तरकृतं पापां माऽऽपतितं महत्।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् ॥ 3-62-33(18317)
भर्तृराज्यापहरणं स्वजनाच्च रपराजयः।
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः।
निर्नाथता वने वासो बहुव्यालनिषेविते ॥ 3-62-34(18318)
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा।
वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम्।
भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥ 3-62-35(18319)
`हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता।
ब्राह्मणैः सहिता तत्रवने तु न विनाशिता ॥' 3-62-36(18320)
अशोचत्तत्र वैदर्भी किंनु मे दुष्कतं कृतम्।
योपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः ॥ 3-62-37(18321)
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत्।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया ॥ 3-62-38(18322)
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता ॥ 3-62-39(18323)
न ह्यदैवकृतंकिंचिन्नराणामिह विद्यते।
न च मे बालभावेऽपि किंचित्पापकृतं कृतम् ॥ 3-62-40(18324)
कर्मणा मनसा वाचा यदिदं दुःखमागतम्।
मन्ये स्वयंवरकृतेलोकपाला समागताः ॥ 3-62-41(18325)
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ 3-62-42(18326)
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना।
प्रलापानि तदा तानि दमयन्ती पतिव्रता ॥ 3-62-43(18327)
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः।
अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥ 3-62-44(18328)
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत्।
सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः ॥ 3-62-45(18329)
`सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम्।'
वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम् ॥ 3-62-46(18330)
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्।
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥ 3-62-47(18331)
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा।
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ॥ 3-62-48(18332)
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः।
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम् ॥ 3-62-49(18333)
धात्रीमुवाच च्छैनामानयेह ममान्तिकम्।
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ॥ 3-62-50(18334)
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्।
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ॥ 3-62-51(18335)
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्।
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥ 3-62-52(18336)
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः।
भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा ॥ 3-62-53(18337)
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्।
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥ 3-62-54(18338)
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्।
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥ 3-62-55(18339)
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्।
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥ 3-62-56(18340)
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः।
भक्ताऽहमपि तं वीरं छायेवानुगता पथि ॥ 3-62-57(18341)
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने।
द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ॥ 3-62-58(18342)
तमेकवसनच्छन्नमुन्म्तमिव विह्वलम्।
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥ 3-62-59(18343)
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे।
क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत् ॥ 3-62-60(18344)
तमेकवसना नग्नमुन्मत्तवदचेतसम्।
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥ 3-62-61(18345)
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्।
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥ 3-62-62(18346)
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥ 3-62-63(18347)
`इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत।
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता' ॥ 3-62-64(18348)
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु।
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम् ॥ 3-62-65(18349)
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ 3-62-66(18350)
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥ 3-62-67(18351)
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्।
समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि ॥ 3-62-68(18352)
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन ॥ 3-62-69(18353)
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्।
वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम् ॥ 3-62-70(18354)
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्।
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः।
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥ 3-62-71(18355)
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत्।
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥ 3-62-72(18356)
एवमुक्त्वा ततो भैमीं राजमाता विशांपते।
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥ 3-62-73(18357)
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्।
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्।
एतया सह मोदस्व निरुद्विग्रमना सदा ॥ 3-62-74(18358)
ततः परमसंहृष्टा सुनन्दा गृहणागमत्।
दमयन्तीमुपादाय सखीभिः परिवारिता ॥ 3-62-75(18359)
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया।
चिन्तयन्ती नलं वीरमनिशं वामलोचना ॥ 3-62-76(18360)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-62-3 यवसं घासः ॥ 3-62-4 श्रान्तवाहाः श्रान्तवाहनाः। निवेशाय वासाय ॥ 3-62-10 पद्मिन्याः सरस्याः ॥ 3-62-28 कृत्यैव कृत्यका। कुत्सिता कृत्या कृत्यकेति वा ताम् ॥ 3-62-33 अपश्चिमां अपरावर्तिनीम् ॥ 3-62-40 पापकृतंपापं कर्म ॥ 3-62-47 अमार्जितां धूसरवेणीम् ॥ 3-62-56 भूजिष्यां दासीं। कामवासिनीं यत्रकाम इच्छा तत्रैव वसन्तीम्। यत्र सायंकालस्तत्रैव प्रतिश्रयो गृहं यस्यास्ताम् ॥ 3-62-57 भर्तारमपि तं वीरं सीतेवानुगता सदेति क. पाठः। अहं चानुगता वीरं छायेवानपगा सदेति ध. पाठः ॥ 3-62-68 हेवीरप्रजायिनि वीरानेव प्रजायते सूते सा वीरप्रजायीनी ॥ 3-62-71 यद्येवमिह वस्तव्यं वसाम्यहमसंशयमिति ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|